|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.59. अध्यायः 059
Mahabharata - Vana Parva - Chapter Topics
नलेन स्वपन्त्या दमयन्त्या वस्त्रार्धच्छेदनपूर्वकं परित्यागेनापयानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-59-0x(1930)(18080)
`इत्युक्तः स तदा देव्या नलो वचनमब्रवीत्।'
यथा राज्यंतव पितुस्तथा मम नसंशयः।
न तु तत्र गमिष्यामि विषमस्थः कथंचन ॥ 3-59-1(18081)
कथं समृद्धो गत्वाऽहं तव हर्षविवर्धनः।
परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥ 3-59-2(18082)
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः।
सान्खयामास कल्याणीं वाससोर्धेन संवृताम् ॥ 3-59-3(18083)
तावेकवस्त्रसंवीतावटमानावितस्ततः।
क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः ॥ 3-59-4(18084)
तां सभामुपसंप्राप्य तदा स निषधाधिपः।
वैदर्भ्या सहितो राजा निषसाद महीतले ॥ 3-59-5(18085)
स वै विवस्त्रो मलिनो विवर्णः पांसुगुण्ठितः।
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥ 3-59-6(18086)
`ततः स्ववसनस्यान्तं दमयन्ती विशांपते।
भूमावास्तीर्य सुष्वाप पतिमालिङ्ग्य शोभना ॥' 3-59-7(18087)
दमयनत्यपि कल्याणी निद्रयाऽपहृता ततः।
सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥ 3-59-8(18088)
सुप्तायां दमयन्त्यां तु नलो राजा विशांपते।
शोकोन्मथितचित्तः सन्न स्म शेते यथा पुरा ॥ 3-59-9(18089)
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः।
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥ 3-59-10(18090)
किं नु मे स्यादिदं कृत्वा किंनु मे स्यादकुर्वतः।
किंनु मे मरणं श्रेयः परित्यागो जनस्य वा ॥ 3-59-11(18091)
मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते।
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥ 3-59-12(18092)
मया निःसंशयं दुखमियं प्राप्स्यत्यनुव्रता।
उत्सर्गेसंशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥ 3-59-13(18093)
बृहदश्च उवाच। 3-59-14x(1931)
स विनिश्चित्य बहुधा विचार्य च पुनःपुनः।
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिप ॥ 3-59-14(18094)
न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि।
यशस्विनी महाभागा मद्भक्तेयं पतिव्रता ॥ 3-59-15(18095)
एवं तस् तदा बुद्धिर्दमयन्त्यां न्यवर्तत।
कलिना दुष्टभावेन दमयन्त्या विसर्जने ॥ 3-59-16(18096)
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम्।
चिन्तयित्वाऽध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥ 3-59-17(18097)
कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया।
विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा ॥ 3-59-18(18098)
परिधावन्नथ नल इतश्चेतश्च भारत।
आससाद सभोद्देशे विकोशं स्वङ्गमुत्तमम् ॥ 3-59-19(18099)
तेनार्धं वाससश्छित्त्वा निवस् च परंतपः।
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनाम् ॥ 3-59-20(18100)
ततो निबद्धहृदयः पुनरागम् तां सभाम्।
दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिपः ॥ 3-59-21(18101)
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्।
सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥ 3-59-22(18102)
इयं वस्त्रावकर्तेन संवीता चारुहासिनी।
उन्मत्तेव मया हीना कथं बुद्ध्वा भविष्यति ॥ 3-59-23(18103)
कथमेका सती भमी मया विरहिता शुभा।
चरिष्यति वने घोरे मृगव्यालनिषेविते ॥ 3-59-24(18104)
आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ।
रक्षन्तु त्वां महाभागे धर्मेणासि समावृता ॥ 3-59-25(18105)
एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुषि।
कलिनाऽपहृतज्ञानो नलः प्रातिपष्ठदुद्यतः ॥ 3-59-26(18106)
गत्वागत्वा नलो राजा पुनरेति सभां मुहुः।
आकृष्यमाणः कलिना सौहृदेनावकृष्यते ॥ 3-59-27(18107)
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा।
दोलेव मुहुरायाति याति चैव मुहुर्मुहुः ॥ 3-59-28(18108)
अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः।
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥ 3-59-29(18109)
नष्टात्मा कलिनाऽऽविष्टस्तत्तद्विगणयन्मुहुः।
जगामैकां वने शून्ये भार्यामुत्सृज्य मोहितः ॥ 3-59-30(18110)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-59-10 परिध्वंसं कलिना वस्त्रापहरणादिक्लेशम् ॥ 3-59-11 जनस्य भार्यायाः ॥ 3-59-16 दमयन्त्यां विषये न्यवर्तत निवृत्तासती विसर्जनेऽभूदिति शेषः ॥ 3-59-20 निवस्य परिधाय ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|